Sukta 9.90
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः । वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि ॥
अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा॑ङ्गू॒षाणा॑मवावशन्त॒ वाणी॑: । वना॒ वसा॑नो॒ वरु॑णो॒ न सिन्धू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥
abhí trí-pṛṣṭhaṃ vṛ́ṣaṇaṃ vayó-dhāmāṅgūṣā́ṇām avāvaśanta vā́ṇīḥ | vánā vásāno váruṇo ná síndhūn ví ratna-dhā́ dayate vā́ryāṇi ||
Toward the three-backed Bull, the home of life-breath, the uttering voices of the singers cry out. Wearing the woods, like Varuṇa he moves among the rivers; as a holder of treasures he distributes the choicest boons.
अ॒भि । त्रि॒ऽपृ॒ष्ठम् । वृष॑णम् । व॒यः॒ऽधाम् । आ॒ङ्गू॒षाणा॑म् । अ॒वा॒व॒श॒न्त॒ । वाणीः॑ । वना॑ । वसा॑नः । वरु॑णः । न । सिन्धू॑न् । वि । र॒त्न॒ऽधाः । द॒य॒ते॒ । वार्या॑णि ॥अभि । त्रिपृष्ठम् । वृषणम् । वयःधाम् । आङ्गूषाणाम् । अवावशन्त । वाणीः । वना । वसानः । वरुणः । न । सिन्धून् । वि । रत्नधाः । दयते । वार्याणि ॥abhi | tri-pṛṣṭham | vṛṣaṇam | vayaḥ-dhām | āṅgūṣāṇām | avāvaśanta | vāṇīḥ | vanā | vasānaḥ | varuṇaḥ | na | sindhūn | vi | ratna-dhāḥ | dayate | vāryāṇi