Sukta 9.90
प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् । इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥
प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् । इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥
prá hinvānáḥ janitā́ ródasyo rathó ná vā́jaṃ saniṣyánn ayāsīt | índraṃ gáchann ā́yudhā saṃśiśānáḥ víśvā vásu hástayor ā́dadhānaḥ ||
Urged forward, the begetter of the two worlds advances like a chariot seeking the plenitude of force. Going to Indra, sharpening his weapons, he sets all treasures in his two hands—ready for the act of victorious giving.
प्र । हि॒न्वा॒नः । ज॒नि॒ता । रोद॑स्योः । रथः॑ । न । वाज॑म् । स॒नि॒ष्यन् । चया॒सी॒त् । इन्द्र॑म् । गच्छ॑न् । आयु॑धा । स॒म्ऽशिशा॑नः । विश्वा॑ । वसु॒ । हस्त॑योः । आ॒ऽदधा॑नः ॥प्र । हिन्वानः । जनिता । रोदस्योः । रथः । न । वाजम् । सनिष्यन् । चयासीत् । इन्द्रम् । गच्छन् । आयुधा । सम्शिशानः । विश्वा । वसु । हस्तयोः । आदधानः ॥pra | hinvānaḥ | janitā | rodasyoḥ | rathaḥ | na | vājam | saniṣyan | cayāsīt | indram | gacchan | āyudhā | sam-śiśānaḥ | viśvā | vasu | hastayoḥ | ādadhānaḥ