Sukta 9.9
स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः । या एकमक्षि वावृधुः ॥
स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुह॑: । या एक॒मक्षि॑ वावृ॒धुः ॥
sá saptá dhītíbhir hitó nádyo ajinvad adrúhaḥ | yā́ ékam ákṣi vāvṛdhuḥ ||
He, set in motion by seven inspirations, impels the rivers that do not betray the Truth—those that enlarge the one Eye of vision.
सः । स॒प्त । धी॒तिऽभिः॑ । हि॒तः । न॒द्यः॑ । अ॒जि॒न्व॒त् । अ॒द्रुहः॑ । याः । एक॑म् । अक्षि॑ । व॒वृ॒धुः ॥सः । सप्त । धीतिभिः । हितः । नद्यः । अजिन्वत् । अद्रुहः । याः । एकम् । अक्षि । ववृधुः ॥saḥ | sapta | dhīti-bhiḥ | hitaḥ | nadyaḥ | ajinvat | adruhaḥ | yāḥ | ekam | akṣi | vavṛdhuḥ