Sukta 9.9
स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् । महान्मही ऋतावृधा ॥
स सू॒नुर्मा॒तरा॒ शुचि॑र्जा॒तो जा॒ते अ॑रोचयत् । म॒हान्म॒ही ऋ॑ता॒वृधा॑ ॥
sá sūnúr mātarā́ śúcir jātó jā́te arocayat | mahā́n mahī́ ṛtāvṛ́dhā ||
He, the pure son of the two Mothers, once born made the two births shine. Great is he, and he makes greatness grow by the law of Truth.
सः । सू॒नुः । मा॒तरा॑ । शुचिः॑ । जा॒तः । जा॒ते इति॑ । अ॒रो॒च॒य॒त् । म॒हान् । म॒ही । ऋ॒त॒ऽवृधा॑ ॥सः । सूनुः । मातरा । शुचिः । जातः । जाते इति । अरोचयत् । महान् । मही । ऋतवृधा ॥saḥ | sūnuḥ | mātarā | śuciḥ | jātaḥ | jāte iti | arocayat | mahān | mahī | ṛta-vṛdhā