Sukta 9.89
विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य । असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय ॥
वि॒ष्ट॒म्भो दि॒वो ध॒रुण॑: पृथि॒व्या विश्वा॑ उ॒त क्षि॒तयो॒ हस्ते॑ अस्य । अस॑त्त॒ उत्सो॑ गृण॒ते नि॒युत्वा॒न्मध्वो॑ अं॒शुः प॑वत इन्द्रि॒याय॑ ॥
viṣṭámbho divó dharúṇaḥ pṛthivyā́ víśvā uta kṣitáyo háste asyá | ásat te útsó gṛṇaté niyútvān mádhvo aṃśúḥ pavate indriyā́ya ||
He is the prop of heaven, the support of earth; all the settled worlds are in his hand. Thy fountain is set for the singer, yoked with forces; the honeyed ray streams for Indra’s power—towards victorious mastery.
वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः॑ । पृ॒थि॒व्याः । विश्वाः॑ । उ॒त । क्षि॒तयः॑ । हस्ते॑ । अ॒स्य॒ । अस॑त् ते॒ । उत्सः॑ । गृ॒ण॒ते । नि॒युत्वा॑न् । मध्वः॑ । अं॒शुः । प॒व॒त्चे । इ॒न्द्रि॒याय॑ ॥विष्टम्भः । दिवः । धरुणः । पृथिव्याः । विश्वाः । उत । क्षितयः । हस्ते । अस्य । असत् ते । उत्सः । गृणते । नियुत्वान् । मध्वः । अंशुः । पवत्चे । इन्द्रियाय ॥viṣṭambhaḥ | divaḥ | dharuṇaḥ | pṛthivyāḥ | viśvāḥ | uta | kṣitayaḥ | haste | asya | asat | te | utsaḥ | gṛṇate | niyutvān | madhvaḥ | aṃśuḥ | pavate | indriyāya