Sukta 9.89
चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः । ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः ॥
चत॑स्र ईं घृत॒दुह॑: सचन्ते समा॒ने अ॒न्तर्ध॒रुणे॒ निष॑त्ताः । ता ई॑मर्षन्ति॒ नम॑सा पुना॒नास्ता ईं॑ वि॒श्वत॒: परि॑ षन्ति पू॒र्वीः ॥
cátasra īm ghṛta-dúhaḥ sacante samāné antár dharuṇé níṣattāḥ | tā́ īm arṣanti námasā punānā́s tā́ īm viśvátas pári santi pūrvī́ḥ ||
Four ghee-milking powers cleave to him, seated together in the inner foundation. They make him flow, purifying him by reverence; they encompass him from every side, those ancient ones.
चत॑स्रः । ई॒म् । घृ॒त॒ऽदुहः॑ । स॒च॒न्ते॒ । स॒मा॒ने । अ॒न्तः । ध॒रुणे॑ । निऽस॑त्ताः । ताः । ई॒म् । अ॒र्ष॒न्ति॒ । नम॑सा । पु॒ना॒नाः । ताः । ई॒म् । वि॒श्वतः॑ । परि॑ । स॒न्ति॒ । पू॒र्वीः ॥चतस्रः । ईम् । घृतदुहः । सचन्ते । समाने । अन्तः । धरुणे । निसत्ताः । ताः । ईम् । अर्षन्ति । नमसा । पुनानाः । ताः । ईम् । विश्वतः । परि । सन्ति । पूर्वीः ॥catasraḥ | īm | ghṛta-duhaḥ | sacante | samāne | antaḥ | dharuṇe | ni-sattāḥ | tāḥ | īm | arṣanti | namasā | punānāḥ | tāḥ | īm | viśvataḥ | pari | santi | pūrvīḥ