Sukta 9.89
मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम् । स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति ॥
मधु॑पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे॑ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् । स्वसा॑र ईं जा॒मयो॑ मर्जयन्ति॒ सना॑भयो वा॒जिन॑मूर्जयन्ति ॥
mádhu-pṛṣṭhaṃ ghorám ayā́sam áśvaṃ ráthe yuñjanty uru-cakrá ṛ́ṣvam | svásāra īm jāmáyo marjayanti sánābhayo vā́jinam ūrjayanti ||
The honey-backed, formidable, tireless steed they yoke to the car with wide wheels, loftily moving. The sisters and near-kin cleanse him; those of one navel strengthen the swift one with energy.
मधु॑ऽपृष्ठम् । घो॒रम् । अ॒यास॑म् । अश्व॑म् । रथे॑ । यु॒ञ्ज॒न्ति॒ । उ॒रु॒ऽच॒क्रे । ऋ॒ष्वम् । स्वसा॑रः । ई॒म् । जा॒मयः॑ । म॒र्ज॒य॒न्ति॒ । सऽना॑भयः । वा॒जिन॑म् । ऊ॒र्ज॒य॒न्ति॒ ॥मधुपृष्ठम् । घोरम् । अयासम् । अश्वम् । रथे । युञ्जन्ति । उरुचक्रे । ऋष्वम् । स्वसारः । ईम् । जामयः । मर्जयन्ति । सनाभयः । वाजिनम् । ऊर्जयन्ति ॥madhu-pṛṣṭham | ghoram | ayāsam | aśvam | rathe | yuñjanti | uru-cakre | ṛṣvam | svasāraḥ | īm | jāmayaḥ | marjayanti | sa-nābhayaḥ | vājinam | ūrjayanti