Sukta 9.89
सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् । शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा ॥
सिं॒हं न॑सन्त॒ मध्वो॑ अ॒यासं॒ हरि॑मरु॒षं दि॒वो अ॒स्य पति॑म् । शूरो॑ यु॒त्सु प्र॑थ॒मः पृ॑च्छते॒ गा अस्य॒ चक्ष॑सा॒ परि॑ पात्यु॒क्षा ॥
siṃháṃ nasanta mádhvo ayā́saṃ hárim aruṣáṃ divó asyá pátim | śū́ro yútsu prathamáḥ pṛ́cchate gā́ asyá cákṣasā pári pāty ukṣā́ ||
They approach him like a lion, tireless with the honeyed delight—golden, ruddy, lord of this heaven. A hero, first in the battles, he seeks out the Rays (cows); with his vision the Bull-power ranges all around.
सिं॒हम् । न॒स॒न्त॒ । मध्वः॑ । अ॒यास॑म् । हरि॑म् । अ॒रु॒षम् । दि॒वः । अ॒स्य । पति॑म् । शूरः॑ । यु॒त्ऽसु । प्र॒थ॒मः । पृ॒च्छ॒ते॒ । गाः । अस्य॑ । चक्ष॑सा । परि॑ । पा॒ति॒ । उ॒क्षा ॥सिंहम् । नसन्त । मध्वः । अयासम् । हरिम् । अरुषम् । दिवः । अस्य । पतिम् । शूरः । युत्सु । प्रथमः । पृच्छते । गाः । अस्य । चक्षसा । परि । पाति । उक्षा ॥siṃham | nasanta | madhvaḥ | ayāsam | harim | aruṣam | divaḥ | asya | patim | śūraḥ | yut-su | prathamaḥ | pṛcchate | gāḥ | asya | cakṣasā | pari | pāti | ukṣā