Sukta 9.89
राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम् । अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम् ॥
राजा॒ सिन्धू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् । अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जाम् ॥
rājā́ síndhūnām avasiṣṭa vā́sa ṛtásya nā́vam ā́ruhad rájiṣṭhām | apsú drapsó vāvṛdhe śyená-jūto dúha īm pitā́ dúha īm pitúr jām ||
King of the rivers, O Vasiṣṭha, he has put on his vesture; he has mounted the swiftest boat of ṛta. In the waters the drop has grown, driven by the falcon-force; the Father milks him forth, and he milks forth the kinship of the Father.
राजा॑ । सिन्धू॑नाम् । अ॒व॒सि॒ष्ट॒ । वासः॑ । ऋ॒तस्य॑ । नाव॑म् । आ । अ॒रु॒ह॒त् । रजि॑ष्ठाम् । अ॒प्ऽसु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒नऽजू॑तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥राजा । सिन्धूनाम् । अवसिष्ट । वासः । ऋतस्य । नावम् । आ । अरुहत् । रजिष्ठाम् । अप्सु । द्रप्सः । ववृधे । श्येनजूतः । दुहे । ईम् । पिता । दुहे । ईम् । पितुः । जाम् ॥rājā | sindhūnām | avasiṣṭa | vāsaḥ | ṛtasya | nāvam | ā | aruhat | rajiṣṭhām | ap-su | drapsaḥ | vavṛdhe | śyena-jūtaḥ | duhe | īm | pitā | duhe | īm | pituḥ | jām