Sukta 9.89
प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः । सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः ॥
प्रो स्य वह्नि॑: प॒थ्या॑भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः । स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोम॑: ॥
pró syá vaḥníḥ pathyā́bhir asyān divó na vṛṣṭíḥ pávamāno akṣāḥ | sahásra-dhāro ásadann y àsmé mā́tur upásthe vána ā́ ca sómaḥ ||
Forward he moves, the carrier of the flame-force, along the rightful paths; like the rain from heaven the purifying one streams out. Thousand-streamed, Soma settles down within us, in the mother’s lap, in the forest-growth, and comes to our field of being.
प्रो इति॑ । स्यः । वह्निः॑ । प॒थ्या॑भिः । अ॒स्या॒न् । दि॒वः । न । वृ॒ष्टिः । पव॑मानः । अ॒क्षा॒रिति॑ । स॒हस्र॑ऽधारः । अ॒स॒द॒त् । नि । अ॒स्मे इति॑ । मा॒तुः । उ॒पऽस्थे॑ । वने॑ । आ । च॒ । सोमः॑ ॥प्रो इति । स्यः । वह्निः । पथ्याभिः । अस्यान् । दिवः । न । वृष्टिः । पवमानः । अक्षारिति । सहस्रधारः । असदत् । नि । अस्मे इति । मातुः । उपस्थे । वने । आ । च । सोमः ॥pro iti | syaḥ | vahniḥ | pathyābhiḥ | asyān | divaḥ | na | vṛṣṭiḥ | pavamānaḥ | akṣāḥ | sahasra-dhāraḥ | asadat | ni | asme iti | mātuḥ | upa-sthe | vane | ā | ca | somaḥ