Sukta 9.84
एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् । इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥
ए॒ष स्य सोम॑: पवते सहस्र॒जिद्धि॑न्वा॒नो वाच॑मिषि॒रामु॑ष॒र्बुध॑म् । इन्दु॑: समु॒द्रमुदि॑यर्ति वा॒युभि॒रेन्द्र॑स्य॒ हार्दि॑ क॒लशे॑षु सीदति ॥
eṣá syá sómaḥ pavate sahasrajíd hinvānáḥ vā́cam iṣirá̄m uṣárbudhám | índuḥ samudrám úd iyarti vāyúbhiḥ ā́ índrasya hā́rdi kalaśéṣu sīdati ||
This Soma indeed is purified, a winner of a thousand, driving forward the inspired speech—keen and dawn-awakening. The bright Indu heaves up the ocean with the winds, and comes to rest in the cups within the heart of Indra.
ए॒षः । स्यः । सोमः॑ । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् । हि॒न्वा॒नः । वाच॑म् । इ॒षि॒राम् । उ॒षः॒ऽबुध॑म् । इन्दुः॑ । स॒मु॒द्रम् । उत् । इ॒य॒र्ति॒ । वा॒युऽभिः॑ । आ । इन्द्र॑स्य । हार्दि॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥एषः । स्यः । सोमः । पवते । सहस्रजित् । हिन्वानः । वाचम् । इषिराम् । उषःबुधम् । इन्दुः । समुद्रम् । उत् । इयर्ति । वायुभिः । आ । इन्द्रस्य । हार्दि । कलशेषु । सीदति ॥eṣaḥ | syaḥ | somaḥ | pavate | sahasra-jit | hinvānaḥ | vācam | iṣirām | uṣaḥ-budham | induḥ | samudram | ut | iyarti | vāyu-bhiḥ | ā | indrasya | hārdi | kalaśeṣu | sīdati