Sukta 9.84
अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् । धनंजयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥
अ॒भि त्यं गाव॒: पय॑सा पयो॒वृधं॒ सोमं॑ श्रीणन्ति म॒तिभि॑: स्व॒र्विद॑म् । ध॒नं॒ज॒यः प॑वते॒ कृत्व्यो॒ रसो॒ विप्र॑: क॒विः काव्ये॑ना॒ स्व॑र्चनाः ॥
abhí tyáṃ gā́vaḥ páyasā payovṛ́dhaṃ sómaṃ śrīṇanti matíbhiḥ svàrvidam | dhanáṃjayaḥ pavate kṛ́tvyo rásो vípraḥ kavíḥ kā́vyenā svàrcanāḥ ||
To that Soma the Rays add their milk, to the increaser of the milk of being, the finder of the Sun-world, by their luminous thoughts. The wealth-conqueror is purified—the effective rasa; the inspired seer-poet, by the power of his vision, shines with his own light.
अ॒भि । त्यम् । गावः॑ । पय॑सा । प॒यः॒ऽवृध॑म् । सोम॑म् । श्री॒ण॒न्ति॒ । म॒तिऽभिः॑ । स्वः॒ऽविद॑म् । ध॒न॒म्ऽज॒यः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । विप्रः॑ । क॒विः । काव्ये॑न । स्वः॑ऽचनाः ॥अभि । त्यम् । गावः । पयसा । पयःवृधम् । सोमम् । श्रीणन्ति । मतिभिः । स्वःविदम् । धनम्जयः । पवते । कृत्व्यः । रसः । विप्रः । कविः । काव्येन । स्वःचनाः ॥abhi | tyam | gāvaḥ | payasā | payaḥ-vṛdham | somam | śrīṇanti | mati-bhiḥ | svaḥ-vidam | dhanam-jayaḥ | pavate | kṛtvyaḥ | rasaḥ | vipraḥ | kaviḥ | kāvyena | svaḥ-canāḥ