Sukta 9.84
आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः । आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥
आ यो गोभि॑: सृ॒ज्यत॒ ओष॑धी॒ष्वा दे॒वानां॑ सु॒म्न इ॒षय॒न्नुपा॑वसुः । आ वि॒द्युता॑ पवते॒ धार॑या सु॒त इन्द्रं॒ सोमो॑ मा॒दय॒न्दैव्यं॒ जन॑म् ॥
ā́ yó góbhīḥ sṛ́jyata óṣadhīṣv ā́ devā́nāṃ sumná iṣáyann upā́vasuḥ | ā́ vidyútā pavate dhā́rayā sutá índraṃ sómo mā́dayan daívyam jánam ||
He who is released with the Rays into the growing powers, pressing forward the gods’ felicity as a near and inward wealth—Soma flows with lightning-speed in a streaming current when pressed; he intoxicates and uplifts Indra and the divine kind within us.
आ । यः । गोभिः॑ । सृ॒ज्यते॑ । ओष॑धीषु । आ । दे॒वाना॑म् । सु॒म्ने । इ॒षय॑न् । उप॑ऽवसुः । आ । वि॒ऽद्युता॑ । प॒व॒ते॒ । धार॑या । सु॒तः । इन्द्र॑म् । सोमः॑ । मा॒दय॑न् । दैव्य॑म् । जन॑म् ॥आ । यः । गोभिः । सृज्यते । ओषधीषु । आ । देवानाम् । सुम्ने । इषयन् । उपवसुः । आ । विद्युता । पवते । धारया । सुतः । इन्द्रम् । सोमः । मादयन् । दैव्यम् । जनम् ॥ā | yaḥ | gobhiḥ | sṛjyate | oṣadhīṣu | ā | devānām | sumne | iṣayan | upa-vasuḥ | ā | vi-dyutā | pavate | dhārayā | sutaḥ | indram | somaḥ | mādayan | daivyam | janam