Sukta 9.84
आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति । कृण्वन्त्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥
आ यस्त॒स्थौ भुव॑ना॒न्यम॑र्त्यो॒ विश्वा॑नि॒ सोम॒: परि॒ तान्य॑र्षति । कृ॒ण्वन्त्सं॒चृतं॑ वि॒चृत॑म॒भिष्ट॑य॒ इन्दु॑: सिषक्त्यु॒षसं॒ न सूर्य॑: ॥
ā́ yás tastháu bhúvanāny ámartyo víśvāni sómaḥ pári tā́ny arṣati | kṛṇván saṃcṛ́taṃ vicṛ́tam abhíṣṭaya índuḥ sisakty uṣásam ná sū́ryaḥ ||
He who has taken his stand over the worlds, the deathless Soma, flows around and encompasses all of them. Making the gathered and the dispersed one for our fulfilment, the bright Indu releases the Dawn within us, as the Sun releases her in the sky.
आ । यः । त॒स्थौ । भुव॑नानि । अम॑र्त्यः । विश्वा॑नि । सोमः॑ । परि॑ । तानि॑ । अ॒र्ष॒ति॒ । कृ॒ण्वन् । स॒म्ऽचृत॑म् । वि॒ऽचृत॑म् । अ॒भिष्ट॑ये । इन्दुः॑ । सि॒स॒क्ति॒ । उ॒षस॑म् । न । सूर्यः॑ ॥आ । यः । तस्थौ । भुवनानि । अमर्त्यः । विश्वानि । सोमः । परि । तानि । अर्षति । कृण्वन् । सम्चृतम् । विचृतम् । अभिष्टये । इन्दुः । सिसक्ति । उषसम् । न । सूर्यः ॥ā | yaḥ | tasthau | bhuvanāni | amartyaḥ | viśvāni | somaḥ | pari | tāni | arṣati | kṛṇvan | sam-cṛtam | vi-cṛtam | abhiṣṭaye | induḥ | sisakti | uṣasam | na | sūryaḥ