Sukta 9.84
पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे । कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥
पव॑स्व देव॒माद॑नो॒ विच॑र्षणिर॒प्सा इन्द्रा॑य॒ वरु॑णाय वा॒यवे॑ । कृ॒धी नो॑ अ॒द्य वरि॑वः स्वस्ति॒मदु॑रुक्षि॒तौ गृ॑णीहि॒ दैव्यं॒ जन॑म् ॥
pávasva deva-mā́dano vícarṣaṇir apsā́ indrā́ya váruṇāya vā́yave | kṛdhí no adyá vári vaḥ svastímad urukṣitáu gṛṇīhi daívyam jánam ||
Purify yourself, delighting the gods, wide-ruling in your movement, dwelling in the waters—for Indra, for Varuṇa, for Vāyu. Create for us today a wide space of being, full of well-being; in the wide dwelling praise and uplift the divine people (the luminous powers within us).
पव॑स्व । दे॒व॒ऽमाद॑नः । विऽच॑र्षणिः । अ॒प्साः । इन्द्रा॑य । वरु॑णाय । वा॒यवे॑ । कृ॒धि । नः॒ । अ॒द्य । वरि॑वः । स्व॒स्ति॒ऽमत् । उ॒रु॒ऽक्षि॒तौ । गृ॒णी॒हि॒ । दैव्य॑म् । जन॑म् ॥पवस्व । देवमादनः । विचर्षणिः । अप्साः । इन्द्राय । वरुणाय । वायवे । कृधि । नः । अद्य । वरिवः । स्वस्तिमत् । उरुक्षितौ । गृणीहि । दैव्यम् । जनम् ॥pavasva | deva-mādanaḥ | vi-carṣaṇiḥ | apsāḥ | indrāya | varuṇāya | vāyave | kṛdhi | naḥ | adya | varivaḥ | svasti-mat | uru-kṣitau | gṛṇīhi | daivyam | janam