Sukta 9.83
गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः । गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥
ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥
gandharvá itthā́ padám asya rakṣati pā́ti devā́nāṃ jánimāny ádbhutaḥ | gṛbhṇā́ti ripúṃ nidháyā nidhā́patiḥ sukṛ́ttamā madhúno bhakṣám ā́śata ||
Thus the Gandharva guards his station; wondrous, he protects the births of the gods. He seizes the hostile force by the hidden placing; the lord of the treasure. The most well-doing powers attain the honeyed portion—delight secured against the spoiler.
ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः । गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥गन्धर्वः । इत्था । पदम् । अस्य । रक्षति । पाति । देवानाम् । जनिमानि । अद्भुतः । गृभ्णाति । रिपुम् । निधया । निधापतिः । सुकृत्तमाः । मधुनः । भक्षम् । आशत ॥gandharvaḥ | itthā | padam | asya | rakṣati | pāti | devānām | janimāni | adbhutaḥ | gṛbhṇāti | ripum | ni-dhayā | nidhāpatiḥ | sukṛt-tamāḥ | madhunaḥ | bhakṣam | āśata