Sukta 9.83
अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः । मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥
अरू॑रुचदु॒षस॒: पृश्नि॑रग्रि॒य उ॒क्षा बि॑भर्ति॒ भुव॑नानि वाज॒युः । मा॒या॒विनो॑ ममिरे अस्य मा॒यया॑ नृ॒चक्ष॑सः पि॒तरो॒ गर्भ॒मा द॑धुः ॥
arū́rucad uṣásaḥ pṛ́śnir agriyá ukṣā́ bibharti bhúvanāni vāja-yúḥ | māyāvíno mamire asya māyáyā nṛ-cákṣasaḥ pitáro gárbham ā́ dadhúḥ ||
The dappled one shines forth at the Dawn, first in the front; the Bull that desires vāja upholds the worlds. By his power of formation the masters of vision measure him; the Fathers with human-seeing sight place the embryo within—setting the delight to be born in us.
अरू॑रुचत् । उ॒षसः॑ । पृश्निः॑ । अ॒ग्रि॒यः । उ॒क्षा । बि॒भ॒र्ति॒ । भुव॑नानि । वा॒ज॒ऽयुः । मा॒या॒ऽविनः॑ । म॒मि॒रे॒ । अ॒स्य॒ । मा॒यया॑ । नृ॒ऽचक्ष॑सः । पि॒तरः॑ । गर्भ॑म् । आ । द॒धुः॒ ॥अरूरुचत् । उषसः । पृश्निः । अग्रियः । उक्षा । बिभर्ति । भुवनानि । वाजयुः । मायाविनः । ममिरे । अस्य । मायया । नृचक्षसः । पितरः । गर्भम् । आ । दधुः ॥arūrucat | uṣasaḥ | pṛśniḥ | agriyaḥ | ukṣā | bibharti | bhuvanāni | vāja-yuḥ | māyāvinaḥ | mamire | asya | māyayā | nṛ-cakṣasaḥ | pitaraḥ | garbham | ā | dadhuḥ