Sukta 9.83
हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम् । राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् ॥
ह॒विर्ह॑विष्मो॒ महि॒ सद्म॒ दैव्यं॒ नभो॒ वसा॑न॒: परि॑ यास्यध्व॒रम् । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हः स॒हस्र॑भृष्टिर्जयसि॒ श्रवो॑ बृ॒हत् ॥
havír haviṣmo máhi sádma daívyam nábho vásānaḥ pári yāsy adhvarám | rājā́ pavítra-ratho vā́jam ā́ruhaḥ sahásra-bhṛṣṭir jayasi śrávo bṛhát ||
O Soma, you are the offering rich with offering-force; clothed with the vast heaven you move around the sacrifice toward the great divine home. A king with the filter as your chariot, mounting vāja, with a thousand-pointed thrust you win the vast hearing—wide fame of the soul’s victory.
ह॒विः । ह॒वि॒ष्मः॒ । महि॑ । सद्म॑ । दैव्य॑म् । नभः॑ । वसा॑नः । परि॑ । या॒सि॒ । अ॒ध्व॒रम् । राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒हः॒ । स॒हस्र॑ऽभृष्टिः । ज॒य॒सि॒ । श्रवः॑ । बृ॒हत् ॥हविः । हविष्मः । महि । सद्म । दैव्यम् । नभः । वसानः । परि । यासि । अध्वरम् । राजा । पवित्ररथः । वाजम् । आ । अरुहः । सहस्रभृष्टिः । जयसि । श्रवः । बृहत् ॥haviḥ | haviṣmaḥ | mahi | sadma | daivyam | nabhaḥ | vasānaḥ | pari | yāsi | adhvaram | rājā | pavitra-rathaḥ | vājam | ā | aruhaḥ | sahasra-bhṛṣṭiḥ | jayasi | śravaḥ | bṛhat