Sukta 9.83
तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् । अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा ॥
तपो॑ष्प॒वित्रं॒ वित॑तं दि॒वस्प॒दे शोच॑न्तो अस्य॒ तन्त॑वो॒ व्य॑स्थिरन् । अव॑न्त्यस्य पवी॒तार॑मा॒शवो॑ दि॒वस्पृ॒ष्ठमधि॑ तिष्ठन्ति॒ चेत॑सा ॥
tápoḥ pavitrám vítataṃ divás padé śócanto asya tántavo vy àsthirān | ávanty asya pavītā́ram āśávo divás pṛṣṭhám ádhi tiṣṭhanti cétasā ||
The purifier of tapas is stretched in the seat of heaven; its shining threads are set apart and made firm. Swift forces guard this filter; by consciousness they stand upon the back of heaven—holding the higher plane so the flow may be clarified.
तपोः॑ । प॒वित्र॑म् । विऽत॑तम् । दि॒वः । प॒दे । शोच॑न्तः । अ॒स्य॒ । तन्त॑वः । वि । अ॒स्थि॒र॒न् । अव॑न्ति । अ॒स्य॒ । प॒वी॒तार॑म् । आ॒ऽशवः॑ । दि॒वः । पृ॒ष्थम् । अधि॑ । ति॒ष्ठ॒न्ति॒ । चेत॑सा ॥तपोः । पवित्रम् । विततम् । दिवः । पदे । शोचन्तः । अस्य । तन्तवः । वि । अस्थिरन् । अवन्ति । अस्य । पवीतारम् । आशवः । दिवः । पृष्थम् । अधि । तिष्ठन्ति । चेतसा ॥tapoḥ | pavitram | vi-tatam | divaḥ | pade | śocantaḥ | asya | tantavaḥ | vi | asthiran | avanti | asya | pavītāram | āśavaḥ | divaḥ | pṛṣtham | adhi | tiṣṭhanti | cetasā