Sukta 9.83
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥
प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: । अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ॥
pavitrám te vítataṃ brahmaṇaspate prabhúr gā́trāṇi páryeṣi viśvátāḥ | átaptatanūr ná tád ā́mo aśnute śṛtā́sa íd váhantas tát samā́śata ||
O Lord of the Word, your filter is stretched wide; master of the workings, you encompass the limbs of being on every side. What is unripe and unheated cannot reach that state; only what has been ripened and made ready bears it and fully attains it.
प॒वित्र॑म् । ते॒ । विऽत॑तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒ऽभुः । गात्रा॑णि । परि॑ । ए॒षि॒ । वि॒श्वतः॑ । अत॑प्तऽतनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः॑ । इत् । वह॑न्तः । तत् । सम् । आ॒श॒त॒ ॥पवित्रम् । ते । विततम् । ब्रह्मणः । पते । प्रभुः । गात्राणि । परि । एषि । विश्वतः । अतप्ततनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । तत् । सम् । आशत ॥pavitram | te | vi-tatam | brahmaṇaḥ | pate | pra-bhuḥ | gātrāṇi | pari | eṣi | viśvataḥ | atapta-tanūḥ | na | tat | āmaḥ | aśnute | śṛtāsaḥ | it | vahantaḥ | tat | sam | āśata