Sukta 9.82
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे । स्वसार आपो अभि गा उतासरन्त्सं ग्रावभिर्नसते वीते अध्वरे ॥
प॒र्जन्य॑: पि॒ता म॑हि॒षस्य॑ प॒र्णिनो॒ नाभा॑ पृथि॒व्या गि॒रिषु॒ क्षयं॑ दधे । स्वसा॑र॒ आपो॑ अ॒भि गा उ॒तास॑र॒न्त्सं ग्राव॑भिर्नसते वी॒ते अ॑ध्व॒रे ॥
parjányāḥ pitā mahiṣásya párṇino nā́bhā pṛthivyā́ gíriṣu kṣáyaṃ dadhé | svásāra ā́po abhí gā́ utā́sarant sáṃ grā́vabhir nasate vīté adhvaré ||
Parjanya, as a father, establishes a dwelling for the mighty one at Earth’s navel, among the heights; and the sister Waters stream toward the rays/cows of light. With the pressing stones they come together in the well-spread sacrifice—powers converging so the delight may be born and made ready.
प॒र्जन्यः॑ । पि॒ता । म॒हि॒षस्य॑ । प॒र्णिनः॑ । नाभा॑ । पृ॒थि॒व्याः । गि॒रिषु॑ । क्षय॑म् । द॒धे॒ । स्वसा॑रः । आपः॑ । अ॒भि । गाः । उ॒त । अ॒स॒र॒न् । सम् । ग्राव॑ऽभिः । न॒स॒ते॒ । वी॒ते । अ॒ध्व॒रे ॥पर्जन्यः । पिता । महिषस्य । पर्णिनः । नाभा । पृथिव्याः । गिरिषु । क्षयम् । दधे । स्वसारः । आपः । अभि । गाः । उत । असरन् । सम् । ग्रावभिः । नसते । वीते । अध्वरे ॥parjanyaḥ | pitā | mahiṣasya | parṇinaḥ | nābhā | pṛthivyāḥ | giriṣu | kṣayam | dadhe | svasāraḥ | āpaḥ | abhi | gāḥ | uta | asaran | sam | grāva-bhiḥ | nasate | vīte | adhvare