Sukta 9.82
कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि । अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥
क॒विर्वे॑ध॒स्या पर्ये॑षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज॑मर्षसि । अ॒प॒सेध॑न्दुरि॒ता सो॑म मृळय घृ॒तं वसा॑न॒: परि॑ यासि नि॒र्णिज॑म् ॥
kavír védhasyā páry eṣi mā́hinam átyo ná mṛṣṭó abhí vā́jam arṣasi | apasédhan duritā́ soma mṛḷaya ghṛtáṃ vásānaḥ pári yāsi nírṇijam ||
O Soma, seer and knower, you move all around in your vast greatness; like a well-groomed steed you rush toward vāja—the plenitude of force and victorious fullness. Pushing away the crooked movements of distress, be gracious to us. Clothed in the shining clarity (ghṛta), you circle and take on the radiant robe of purity.
क॒विः । वे॒ध॒स्या । परि॑ । ए॒षि॒ । माहि॑नम् । अत्यः॑ । न । मृ॒ष्टः । अ॒भि । वाज॑म् । अ॒र्ष॒सि॒ । अ॒प॒ऽसेध॑न् । दुः॒ऽइ॒ता । सो॒म॒ । मृ॒ळ॒य॒ । घृ॒तम् । वसा॑नः । परि॑ । या॒सि॒ । निः॒ऽनिज॑म् ॥कविः । वेधस्या । परि । एषि । माहिनम् । अत्यः । न । मृष्टः । अभि । वाजम् । अर्षसि । अपसेधन् । दुःइता । सोम । मृळय । घृतम् । वसानः । परि । यासि । निःनिजम् ॥kaviḥ | vedhasyā | pari | eṣi | māhinam | atyaḥ | na | mṛṣṭaḥ | abhi | vājam | arṣasi | apa-sedhan | duḥ-itā | soma | mṛḷaya | ghṛtam | vasānaḥ | pari | yāsi | niḥ-nijam