Sukta 9.82
असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् । पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् ॥
असा॑वि॒ सोमो॑ अरु॒षो वृषा॒ हरी॒ राजे॑व द॒स्मो अ॒भि गा अ॑चिक्रदत् । पु॒ना॒नो वारं॒ पर्ये॑त्य॒व्ययं॑ श्ये॒नो न योनिं॑ घृ॒तव॑न्तमा॒सद॑म् ॥
asā́vi sómo aruṣó vṛ́ṣā hárī rājéva dasmó abhí gā́ acikradat | punā́nó vā́raṃ páry ety avyáyaṃ śyéno na yóniṃ ghṛtávantam āsádam ||
Soma is pressed out, ruddy and powerful, tawny; like a king, the wondrous one cries out toward the Cows of Light. Purifying, he moves around the imperishable filter, like a hawk to its nest, to the ghee-rich seat.
असा॑वि । सोमः॑ । अ॒रु॒षः । वृषा॑ । हरिः॑ । राजाऽइ॑व । द॒स्मः । अ॒भि । गाः । अ॒चि॒क्र॒द॒त् । पु॒ना॒नः । वार॑म् । परि॑ । ए॒ति॒ । अ॒व्यय॑म् । श्ये॒नः । न । योनि॑म् । घृ॒तऽव॑न्तम् । आ॒ऽसद॑म् ॥असावि । सोमः । अरुषः । वृषा । हरिः । राजाइव । दस्मः । अभि । गाः । अचिक्रदत् । पुनानः । वारम् । परि । एति । अव्ययम् । श्येनः । न । योनिम् । घृतवन्तम् । आसदम् ॥asāvi | somaḥ | aruṣaḥ | vṛṣā | hariḥ | rājā-iva | dasmaḥ | abhi | gāḥ | acikradat | punānaḥ | vāram | pari | eti | avyayam | śyenaḥ | na | yonim | ghṛta-vantam | āsadam