Sukta 9.81
आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः । बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥
आ न॑: पू॒षा पव॑मानः सुरा॒तयो॑ मि॒त्रो ग॑च्छन्तु॒ वरु॑णः स॒जोष॑सः । बृह॒स्पति॑र्म॒रुतो॑ वा॒युर॒श्विना॒ त्वष्टा॑ सवि॒ता सु॒यमा॒ सर॑स्वती ॥
ā́ naḥ pūṣā́ pavamānaḥ su-rā́tayo mitró gacchantu váruṇaḥ sa-jóṣasaḥ | bṛ́haspátir marúto vāyúr aśvínā tváṣṭā savitā́ su-yámā sárasvatī ||
May Pūṣan come to us with the purifying Soma, the good givers; may Mitra and Varuṇa come in one accord. May Bṛhaspati, the Maruts, Vāyu, the Aśvins, Tvaṣṭṛ, Savitṛ, Su-yamā, Sarasvatī draw near.
आ । नः॒ । पू॒षा । पव॑मानः । सु॒ऽरा॒तयः॑ । मि॒त्रः । ग॒च्छ॒न्तु॒ । वरु॑णः । स॒ऽजोष॑सः । बृह॒स्पतिः॑ । म॒रुतः॑ । वा॒युः । अ॒श्विना॑ । त्वष्टा॑ । स॒वि॒ता । सु॒ऽयमा॑ । सर॑स्वती ॥आ । नः । पूषा । पवमानः । सुरातयः । मित्रः । गच्छन्तु । वरुणः । सजोषसः । बृहस्पतिः । मरुतः । वायुः । अश्विना । त्वष्टा । सविता । सुयमा । सरस्वती ॥ā | naḥ | pūṣā | pavamānaḥ | su-rātayaḥ | mitraḥ | gacchantu | varuṇaḥ | sa-joṣasaḥ | bṛhaspatiḥ | marutaḥ | vāyuḥ | aśvinā | tvaṣṭā | savitā | su-yamā | sarasvatī