Sukta 9.81
आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः । शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥
आ न॑: सोम॒ पव॑मानः किरा॒ वस्विन्दो॒ भव॑ म॒घवा॒ राध॑सो म॒हः । शिक्षा॑ वयोधो॒ वस॑वे॒ सु चे॒तुना॒ मा नो॒ गय॑मा॒रे अ॒स्मत्परा॑ सिचः ॥
ā́ naḥ soma pavamānaḥ kirā́ vásv índo bháva maghávā rā́dhaso maháḥ | śíkṣā vayodhó vásave sú cetúnā mā́ no gáyam ā́re asmát pará̄ sicaḥ ||
Come to us, O Soma in purification, and scatter wealth of being; O Indu, become for us a great giver of plenitude. Teach us the increase of life and strength with a clear seeing; do not pour our gain far away from us.
आ । नः॒ । सो॒म॒ । पव॑मानः । कि॒र॒ । वसु॑ । इन्दो॒ इति॑ । भव॑ । म॒घऽवा॑ । राध॑सः । म॒हः । शिक्ष॑ । व॒यः॒ऽधः॒ । वस॑वे । सु । चे॒तुना॑ । मा । नः॒ । गय॑म् । आ॒रे । अ॒स्मत् । परा॑ । सि॒चः॒ ॥आ । नः । सोम । पवमानः । किर । वसु । इन्दो इति । भव । मघवा । राधसः । महः । शिक्ष । वयःधः । वसवे । सु । चेतुना । मा । नः । गयम् । आरे । अस्मत् । परा । सिचः ॥ā | naḥ | soma | pavamānaḥ | kira | vasu | indo iti | bhava | magha-vā | rādhasaḥ | mahaḥ | śikṣa | vayaḥ-dhaḥ | vasave | su | cetunā | mā | naḥ | gayam | āre | asmat | parā | sicaḥ