Sukta 9.8
पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः । परि गव्यान्यव्यत ॥
पु॒ना॒नः क॒लशे॒ष्वा वस्त्रा॑ण्यरु॒षो हरि॑: । परि॒ गव्या॑न्यव्यत ॥
punānáḥ kalaśéṣv ā vástrāṇy aruṣó háriḥ | pári gavyā́ny avyata ||
Self-purifying in the vessels, the tawny-golden one enters the filtering cloths; around the luminous riches he is woven and made ready.
पु॒ना॒नः । क॒लशे॑षु । आ । वस्त्रा॑णि । अ॒रु॒षः । हरिः॑ । परि॑ । गव्या॑नि । अ॒व्य॒त॒ ॥पुनानः । कलशेषु । आ । वस्त्राणि । अरुषः । हरिः । परि । गव्यानि । अव्यत ॥punānaḥ | kalaśeṣu | ā | vastrāṇi | aruṣaḥ | hariḥ | pari | gavyāni | avyata