Sukta 9.79
उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः । धन्वन्न तृष्णा समरीत ताँ अभि सोम जहि पवमान दुराध्यः ॥
उ॒त स्वस्या॒ अरा॑त्या अ॒रिर्हि ष उ॒तान्यस्या॒ अरा॑त्या॒ वृको॒ हि षः । धन्व॒न्न तृष्णा॒ सम॑रीत॒ ताँ अ॒भि सोम॑ ज॒हि प॑वमान दुरा॒ध्य॑: ॥
utá svásyā arā́tyā arír hí ṣá utā́nyasyā arā́tyā vṛ́ko hí ṣáḥ | dhánvann ná tṛ́ṣṇā sám arīta tā́n abhí soma jahí pavamāna durā́dhyaḥ ||
And one’s own withholding becomes an enemy; another’s withholding becomes a wolf. Like thirst running over the dry land, they spread together—smite them, O Soma, as you purify yourself, these hard-to-master forces.
उ॒त । स्वस्याः॑ । अरा॑त्याः । अ॒रिः । हि । सः । उ॒त । अ॒न्यस्याः॑ । अरा॑त्याः । वृकः॑ । हि । सः । धन्व॑न् । न । तृष्णा॑ । सम् । अ॒री॒त॒ । तान् । अ॒भि । सोम॑ । ज॒हि । प॒व॒मा॒न॒ । दुः॒ऽआ॒ध्यः॑ ॥उत । स्वस्याः । अरात्याः । अरिः । हि । सः । उत । अन्यस्याः । अरात्याः । वृकः । हि । सः । धन्वन् । न । तृष्णा । सम् । अरीत । तान् । अभि । सोम । जहि । पवमान । दुःआध्यः ॥uta | svasyāḥ | arātyāḥ | ariḥ | hi | saḥ | uta | anyasyāḥ | arātyāḥ | vṛkaḥ | hi | saḥ | dhanvan | na | tṛṣṇā | sam | arīta | tān | abhi | soma | jahi | pavamāna | duḥ-ādhyaḥ