Sukta 9.79
एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः । निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः ॥
ए॒वा त॑ इन्दो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुञ्जन्ति प्रथ॒मा अ॑भि॒श्रिय॑: । निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मद॑: ॥
evā́ ta indo subhvā́ṃ su-péśasaṃ rásaṃ tuñjanti prathamā́ abhi-śríyaḥ | nídaṃ-nidaṃ pavamāna ní tāriṣa āvís te śúṣmo bhavatu priyó mádaḥ ||
Thus, O Indu, the first splendours press out your essence—well-being, well-formed in beauty. From level to level, O purifying one, carry us through; manifest your force, let your dear ecstasy be present in us.
ए॒व । ते॒ । इ॒न्दो॒ इति॑ । सु॒ऽभ्व॑म् । सु॒ऽपेश॑सम् । रस॑म् । तु॒ञ्ज॒न्ति॒ । प्र॒थ॒माः । अ॒भि॒ऽश्रियः॑ । निद॑म्ऽनिदम् । प॒व॒मा॒न॒ । नि । ता॒रि॒षः॒ । आ॒विः । ते॒ । शुष्मः॑ । भ॒व॒तु॒ । प्रि॒यः । मदः॑ ॥एव । ते । इन्दो इति । सुभ्वम् । सुपेशसम् । रसम् । तुञ्जन्ति । प्रथमाः । अभिश्रियः । निदम्निदम् । पवमान । नि । तारिषः । आविः । ते । शुष्मः । भवतु । प्रियः । मदः ॥eva | te | indo iti | su-bhvam | su-peśasam | rasam | tuñjanti | prathamāḥ | abhi-śriyaḥ | nidam-nidam | pavamāna | ni | tāriṣaḥ | āviḥ | te | śuṣmaḥ | bhavatu | priyaḥ | madaḥ