Sukta 9.79
प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि । तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥
प्र णो॑ धन्व॒न्त्विन्द॑वो मद॒च्युतो॒ धना॑ वा॒ येभि॒रर्व॑तो जुनी॒मसि॑ । ति॒रो मर्त॑स्य॒ कस्य॑ चि॒त्परि॑ह्वृतिं व॒यं धना॑नि वि॒श्वधा॑ भरेमहि ॥
prá no dhanvantv índavo mada-cyúto dhánā vā yébhiḥ árvato junī́masi | tiró mártasya kásya cit pári-hvṛtiṃ vayáṃ dhánāni viśvá-dhā bharemahi ||
May the Soma-drops speed for us, pouring out ecstasy, those riches by which we yoke the eager steed. Beyond the circumventing claim of any mortal, may we bear the riches in every way.
प्र । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । म॒द॒ऽच्युतः॑ । धना॑ । वा॒ । येभिः॑ । अर्व॑तः । जु॒नी॒मसि॑ । ति॒रः । मर्त॑स्य । कस्य॑ । चि॒त् । परि॑ऽह्वृतिम् । व॒यम् । धना॑नि । वि॒श्वऽधा॑ । भ॒रे॒म॒हि॒ ॥प्र । नः । धन्वन्तु । इन्दवः । मदच्युतः । धना । वा । येभिः । अर्वतः । जुनीमसि । तिरः । मर्तस्य । कस्य । चित् । परिह्वृतिम् । वयम् । धनानि । विश्वधा । भरेमहि ॥pra | naḥ | dhanvantu | indavaḥ | mada-cyutaḥ | dhanā | vā | yebhiḥ | arvataḥ | junīmasi | tiraḥ | martasya | kasya | cit | pari-hvṛtim | vayam | dhanāni | viśva-dhā | bharemahi