Sukta 9.79
अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः । वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः ॥
अ॒चो॒दसो॑ नो धन्व॒न्त्विन्द॑व॒: प्र सु॑वा॒नासो॑ बृ॒हद्दि॑वेषु॒ हर॑यः । वि च॒ नश॑न्न इ॒षो अरा॑तयो॒ऽर्यो न॑शन्त॒ सनि॑षन्त नो॒ धिय॑: ॥
acódaso no dhanvantv índavaḥ prá suvānā́so bṛhád-diveṣu háryaḥ | ví ca náśann a iṣó arā́tayo’ryó náśanta sániṣanta no dhíyaḥ ||
May the unimpelled Soma-drops for us speed forward, pressed out, the bright ones in the vast heavens. Let our impulsions and nourishments spread out; let the non-givers perish like strangers, and let our thoughts win the gain.
अ॒चो॒दसः॑ । नः॒ । ध॒न्व॒न्तु॒ । इन्द॑वः । प्र । सु॒वा॒नासः॑ । बृ॒हत्ऽदि॑वेषु । हर॑यः । वि । च॒ । नश॑न् । नः॒ । इ॒षः । अरा॑तयः । अ॒र्यः । न॒श॒न्त॒ । सनि॑षन्तन । धियः॑ ॥अचोदसः । नः । धन्वन्तु । इन्दवः । प्र । सुवानासः । बृहत्दिवेषु । हरयः । वि । च । नशन् । नः । इषः । अरातयः । अर्यः । नशन्त । सनिषन्तन । धियः ॥acodasaḥ | naḥ | dhanvantu | indavaḥ | pra | suvānāsaḥ | bṛhat-diveṣu | harayaḥ | vi | ca | naśan | naḥ | iṣaḥ | arātayaḥ | aryaḥ | naśanta | saniṣanta | naḥ | dhiyaḥ