Sukta 9.77
अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः । इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥
अ॒यं नो॑ वि॒द्वान्व॑नवद्वनुष्य॒त इन्दु॑: स॒त्राचा॒ मन॑सा पुरुष्टु॒तः । इ॒नस्य॒ यः सद॑ने॒ गर्भ॑माद॒धे गवा॑मुरु॒ब्जम॒भ्यर्ष॑ति व्र॒जम् ॥
ayáṃ no vidvā́n vanavad vanuṣyát índuḥ satrā́cā mánasā puruṣṭutáḥ | inásya yáḥ sádane gárbham ādadhe gavā́m urubjáṃ abhyárṣati vrajám ||
This Soma, knowing, wins for us as one who seeks the woods (the hidden); moving straight with the mind, praised by many. He who in the seat sets the embryo (the inner formation) rushes toward the wide enclosure of the Rays—the pen where the luminous herds are gathered.
अ॒यम् । नः॒ । वि॒द्वान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । इन्दुः॑ । स॒त्राचा॑ । मन॑सा । पु॒रु॒ऽस्तु॒तः । इ॒नस्य॑ । यः । सद॑ने । गर्भ॑म् । आ॒ऽद॒धे । गवा॑म् । उ॒रु॒ब्जम् । अ॒भि । अर्ष॑ति । व्र॒जम् ॥अयम् । नः । विद्वान् । वनवत् । वनुष्यतः । इन्दुः । सत्राचा । मनसा । पुरुस्तुतः । इनस्य । यः । सदने । गर्भम् । आदधे । गवाम् । उरुब्जम् । अभि । अर्षति । व्रजम् ॥ayam | naḥ | vidvān | vanavat | vanuṣyataḥ | induḥ | satrācā | manasā | puru-stutaḥ | inasya | yaḥ | sadane | garbham | ādadhe | gavām | urubjam | abhi | aṣarti | vrajam