Sukta 9.77
चक्रिर्दिवः पवते कृत्व्यो रसो महाँ अदब्धो वरुणो हुरुग्यते । असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥
चक्रि॑र्दि॒वः प॑वते॒ कृत्व्यो॒ रसो॑ म॒हाँ अद॑ब्धो॒ वरु॑णो हु॒रुग्य॒ते । असा॑वि मि॒त्रो वृ॒जने॑षु य॒ज्ञियोऽत्यो॒ न यू॒थे वृ॑ष॒युः कनि॑क्रदत् ॥
cakríḥ diváḥ pavate kṛ́tvyo rásō mahā́n adábhō váruṇo hurúg yáte | asā́vi mítraḥ vṛjánēṣu yajñíyo’tyó na yū́thē vṛṣa-yúḥ kaníkradat ||
The doer of the right workings, the wide-acting essence, flows down from the luminous heaven; vast is he, unbetrayable—Varuṇa, the power of the Vast Law, moving in wide spaces. Mitra too is pressed out among the fields of our being, fit for sacrifice; like a strong stallion in the herd, he cries out, impelling the soul toward victorious force.
चक्रिः॑ । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । म॒हान् । अद॑ब्धः । वरु॑णः । हु॒रुक् । य॒ते । असा॑वि । मि॒त्रः । वृ॒जने॑षु । य॒ज्ञियः॑ । अत्यः॑ । न । यू॒थे । वृ॒ष॒ऽयुः । कनि॑क्रदत् ॥चक्रिः । दिवः । पवते । कृत्व्यः । रसः । महान् । अदब्धः । वरुणः । हुरुक् । यते । असावि । मित्रः । वृजनेषु । यज्ञियः । अत्यः । न । यूथे । वृषयुः । कनिक्रदत् ॥cakriḥ | divaḥ | pavate | kṛtvyaḥ | rasaḥ | mahān | adabdhaḥ | varuṇaḥ | huruk | yate | asāvi | mitraḥ | vṛjaneṣu | yajñiyaḥ | atyaḥ | na | yūthe | vṛṣa-yuḥ | kanikradat