Sukta 9.77
ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते । ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥
ते न॒: पूर्वा॑स॒ उप॑रास॒ इन्द॑वो म॒हे वाजा॑य धन्वन्तु॒ गोम॑ते । ई॒क्षे॒ण्या॑सो अ॒ह्यो॒३॒॑ न चार॑वो॒ ब्रह्म॑ब्रह्म॒ ये जु॑जु॒षुर्ह॒विर्ह॑विः ॥
té naḥ pū́rvāsa úparāsa índavo mahé vā́jāya dhanvantu gó-mate | īkṣeṇyā́so ahyò na cā́ravo bráhma-brahma yé jujuṣúr havír-haviḥ ||
May those ancient and later Soma-drops speed for us toward the great plenitude of force rich in Rays. Visible and swift like serpents, they who accept each offering with each mantra, may they move as mantra upon mantra within us.
ते । नः॒ । पूर्वा॑सः । उप॑रासः । इन्द॑वः । म॒हे । वाजा॑य । ध॒न्व॒न्तु॒ । गोऽम॑ते । ई॒क्षे॒ण्या॑सः । अ॒ह्यः॑ । न । चार॑वः । ब्रह्म॑ऽब्रह्म । ये । जु॒जु॒षुः । ह॒विःऽह॑विः ॥ते । नः । पूर्वासः । उपरासः । इन्दवः । महे । वाजाय । धन्वन्तु । गोमते । ईक्षेण्यासः । अह्यः । न । चारवः । ब्रह्मब्रह्म । ये । जुजुषुः । हविःहविः ॥te | naḥ | pūrvāsaḥ | uparāsaḥ | indavaḥ | mahe | vājāya | dhanvantu | go-mate | īkṣeṇyāsaḥ | ahyaḥ | na | cāravaḥ | brahma-brahma | ye | jujuṣuḥ | haviḥ-haviḥ