Sukta 9.77
स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः । स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥
स पू॒र्व्यः प॑वते॒ यं दि॒वस्परि॑ श्ये॒नो म॑था॒यदि॑षि॒तस्ति॒रो रज॑: । स मध्व॒ आ यु॑वते॒ वेवि॑जान॒ इत्कृ॒शानो॒रस्तु॒र्मन॒साह॑ बि॒भ्युषा॑ ॥
sá pū́rvyaḥ pavate yáṃ divás pári śyénō mathā́yad iṣitás tiró rájaḥ | sá mádhva ā́ yuvate vévijāna ít kṛśā́nōr ástuḥ mánasā́ha bíbhyuṣā ||
That ancient one purifies and streams—he whom the falcon brought from beyond, from the heaven across the mid-region. He hastens with honeyed delight, quivering with power; even from the archer (Kṛśānu), from his bow, he was feared in mind.
सः । पू॒र्व्यः । प॒व॒ते॒ । यम् । दि॒वः । परि॑ । श्ये॒नः । म॒था॒यत् । इ॒षि॒तः । ति॒रः । रजः॑ । सः । मध्वः॑ । आ । यु॒व॒ते॒ । वेवि॑जानः । इत् । कृ॒शानोः । अस्तुः॑ । मन॑सा । अह॑ । बि॒भ्युषा॑ ॥सः । पूर्व्यः । पवते । यम् । दिवः । परि । श्येनः । मथायत् । इषितः । तिरः । रजः । सः । मध्वः । आ । युवते । वेविजानः । इत् । कृशानोः । अस्तुः । मनसा । अह । बिभ्युषा ॥saḥ | pūrvyaḥ | pavate | yam | divaḥ | pari | śyenaḥ | mathāyat | iṣitaḥ | tiraḥ | rajaḥ | saḥ | madhvaḥ | ā | yuvate | vevijānaḥ | it | kṛśānoḥ | astuḥ | manasā | aha | bibhyuṣā