Sukta 9.77
एष प्र कोशे मधुमाँ अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः । अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥
ए॒ष प्र कोशे॒ मधु॑माँ अचिक्रद॒दिन्द्र॑स्य॒ वज्रो॒ वपु॑षो॒ वपु॑ष्टरः । अ॒भीमृ॒तस्य॑ सु॒दुघा॑ घृत॒श्चुतो॑ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नव॑: ॥
eṣá prá kóśe mádhumān acikradad índrasya vájro vápuṣo vápuṣṭaraḥ | abhī́m ṛtásya su-dúghā ghṛtá-ścuto vāśrā́ arṣanti páyasā-iva dhenávaḥ ||
This one cries aloud in the vessel, full of honeyed delight—Indra’s thunderbolt, more radiant than radiance. Towards him the well-milking streams of the Truth, dripping with clarified richness, flow like lowing cows with their milk.
ए॒षः । प्र । कोशे॑ । मधु॑ऽमान् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । वज्रः॑ । वपु॑षः । वपुः॑ऽतरः । अ॒भि । ई॒म् । ऋ॒तस्य॑ । सु॒ऽदुघाः॑ । घृ॒त॒ऽश्चुतः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ॥एषः । प्र । कोशे । मधुमान् । अचिक्रदत् । इन्द्रस्य । वज्रः । वपुषः । वपुःतरः । अभि । ईम् । ऋतस्य । सुदुघाः । घृतश्चुतः । वाश्राः । अर्षन्ति । पयसाइव । धेनवः ॥eṣaḥ | pra | kośe | madhu-mān | acikradat | indrasya | vajraḥ | vapuṣaḥ | vapuḥ-taraḥ | abhi | īm | ṛtasya | su-dughāḥ | ghṛta-ścutaḥ | vāśrāḥ | arṣanti | payasā-iva | dhenavaḥ