Sukta 9.75
अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः । रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥
अद्रि॑भिः सु॒तो म॒तिभि॒श्चनो॑हितः प्ररो॒चय॒न्रोद॑सी मा॒तरा॒ शुचि॑: । रोमा॒ण्यव्या॑ स॒मया॒ वि धा॑वति॒ मधो॒र्धारा॒ पिन्व॑माना दि॒वेदि॑वे ॥
ádribhiḥ sutó matíbhis cánōhitaḥ prarocáyan ródasī mātárā śúciḥ | romā́ṇy avyā́ samáyā ví dhāvati mádhor dhā́rā pínvamānā divédive ||
Pressed by the stones, set for delight by the inspired thoughts, the pure one makes the two Mothers shine. Through the woolen hairs in due season he runs apart; the stream of honey swells day by day.
अद्रि॑ऽभिः । सु॒तः । म॒तिऽभिः । चनः॑ऽहितः । प्र॒ऽरो॒चय॑न् । रोद॑सी॒ इति॑ । मा॒तरा॑ । शुचिः॑ । रोमा॑णि । अव्या॑ । स॒मया॑ । वि । धा॒व॒ति॒ । मधोः॑ । धारा॑ । पिन्व॑माना । दि॒वेऽदि॑वे ॥अद्रिभिः । सुतः । मतिभिः । चनःहितः । प्ररोचयन् । रोदसी इति । मातरा । शुचिः । रोमाणि । अव्या । समया । वि । धावति । मधोः । धारा । पिन्वमाना । दिवेदिवे ॥adri-bhiḥ | sutaḥ | mati-bhiḥ | canaḥ-hitaḥ | pra-rocayan | rodasī iti | mātarā | śuciḥ | romāṇi | avyā | samayā | vi | dhāvati | madhoḥ | dhārā | pinvamānā | dive-dive