Sukta 9.75
अव द्युतानः कलशाँ अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये । अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥
अव॑ द्युता॒नः क॒लशाँ॑ अचिक्रद॒न्नृभि॑र्येमा॒नः कोश॒ आ हि॑र॒ण्यये॑ । अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूष॒ताधि॑ त्रिपृ॒ष्ठ उ॒षसो॒ वि रा॑जति ॥
áva dyutānáḥ kalaśā́ṃ acikradan nṛ́bhir yemānáḥ kóśa ā́ hiraṇyáye | abhī́m ṛtásya dohanā́ anūṣatā́dhi tripṛṣṭhá uṣáso ví rājati ||
Down he shines, crying out to the jars, guided by the men into the golden vessel. The milkings of Ṛta have sounded to him; set upon the triple seat, he shines widely with the Dawns.
अव॑ । द्यु॒ता॒नः । क॒लशा॑न् । अ॒चि॒क्र॒द॒त् । नृऽभिः॑ । वे॒मा॒नः । कोशे॑ । आ । हि॒र॒ण्यये॑ । अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । अधि॑ । त्रि॒ऽपृ॒ष्ठः । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥अव । द्युतानः । कलशान् । अचिक्रदत् । नृभिः । वेमानः । कोशे । आ । हिरण्यये । अभि । ईम् । ऋतस्य । दोहनाः । अनूषत । अधि । त्रिपृष्ठः । उषसः । वि । राजति ॥ava | dyutānaḥ | kalaśān | acikradan | nṛ-bhiḥ | vemānaḥ | kośe | ā | hiraṇyaye | abhi | īm | ṛtasya | dohanāḥ | anūṣata | adhi | tri-pṛṣṭhaḥ | uṣasaḥ | vi | rājati