Sukta 9.75
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः । दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः ॥
ऋ॒तस्य॑ जि॒ह्वा प॑वते॒ मधु॑ प्रि॒यं व॒क्ता पति॑र्धि॒यो अ॒स्या अदा॑भ्यः । दधा॑ति पु॒त्रः पि॒त्रोर॑पी॒च्यं१॒॑ नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥
ṛtásya jihvā́ pavate mádhu priyáṃ vaktā́ pátir dhiyó asyā́ adā́bhyaḥ | dádhāti putráḥ pitrór apī́cyaṃ nā́ma tṛtī́yam ádhi rocané diváḥ ||
The tongue of Ṛta flows—honey, beloved; the faultless lord and speaker of this inspired thought. The son sets the hidden name of the Parents, the third, upon the shining realm of heaven.
ऋतस्य॑ । जि॒ह्वा । प॒व॒ते॒ । मधु॑ । प्रि॒यम् । व॒क्ता । पतिः॑ । धि॒यः । अ॒स्याः । अदा॑भ्यः । दधा॑ति । पु॒त्रः । पि॒त्रोः । अ॒पी॒च्य॑म् । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥ऋतस्य । जिह्वा । पवते । मधु । प्रियम् । वक्ता । पतिः । धियः । अस्याः । अदाभ्यः । दधाति । पुत्रः । पित्रोः । अपीच्यम् । नाम । तृतीयम् । अधि । रोचने । दिवः ॥ṛtasya | jihvā | pavate | madhu | priyam | vaktā | patiḥ | dhiyaḥ | asyāḥ | adābhyaḥ | dadhāti | putraḥ | pitroḥ | apīcyam | nāma | tṛtīyam | adhi | rocane | divaḥ