Sukta 9.75
अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते । आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥
अ॒भि प्रि॒याणि॑ पवते॒ चनो॑हितो॒ नामा॑नि य॒ह्वो अधि॒ येषु॒ वर्ध॑ते । आ सूर्य॑स्य बृह॒तो बृ॒हन्नधि॒ रथं॒ विष्व॑ञ्चमरुहद्विचक्ष॒णः ॥
abhí priyā́ṇi pavate cánōhito nā́māni yahvó ádhi yéṣu várdhate | ā́ sū́ryasya bṛható bṛhánn ádhi ráthaṃ víṣvañcam aruhad vicakṣaṇáḥ ||
He flows toward the beloved things, set for delight; the impetuous one grows upon the names (the powers of expression). Upon the vastness of the Sun, the Vast, the discerning one has mounted the all-pervading chariot.
अ॒भि । प्रि॒याणि॑ । प॒व॒ते॒ । चनः॑ऽहितः । नामा॑नि । य॒ह्वः । अधि॑ । येषु॑ । वर्ध॑ते । आ । सूर्य॑स्य । बृ॒ह॒तः । बृ॒हन् । अधि॑ । रथ॑म् । विष्व॑ञ्चम् । अ॒रु॒ह॒त् । वि॒ऽच॒क्ष॒णः ॥अभि । प्रियाणि । पवते । चनःहितः । नामानि । यह्वः । अधि । येषु । वर्धते । आ । सूर्यस्य । बृहतः । बृहन् । अधि । रथम् । विष्वञ्चम् । अरुहत् । विचक्षणः ॥abhi | priyāṇi | pavate | canaḥ-hitaḥ | nāmāni | yahvaḥ | adhi | yeṣu | vardhate | ā | sūryasya | bṛhataḥ | bṛhan | adhi | ratham | viṣvañcam | aruhat | vi-cakṣaṇaḥ