Sukta 9.74
अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् । आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥
अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तं कार्ष्म॒न्ना वा॒ज्य॑क्रमीत्सस॒वान् । आ हि॑न्विरे॒ मन॑सा देव॒यन्त॑: क॒क्षीव॑ते श॒तहि॑माय॒ गोना॑म् ॥
ádha śvetáṃ kalaśáṃ góbhir aktáṃ kārṣmánnā vājí akramīt sasavā́n | ā́ hinvire mánasā deva-yántaḥ kakṣī́vate śatá-himāya gónām ||
Then the white jar, anointed with the rays, is ascended by the victorious force as it presses on. The god-seeking ones urge it forward by the mind—towards Kakṣīvān, for the hundred-wintered abundance of luminous herds (rays of knowledge).
अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । कार्ष्म॑न् । आ । वा॒जी । अ॒क्र॒मी॒त् । स॒स॒ऽवान् । आ । हि॒न्वि॒रे॒ । मन॑सा । दे॒व॒ऽयन्तः॑ । क॒क्षीव॑ते । श॒तऽहि॑माय । गोना॑म् ॥अध । श्वेतम् । कलशम् । गोभिः । अक्तम् । कार्ष्मन् । आ । वाजी । अक्रमीत् । ससवान् । आ । हिन्विरे । मनसा । देवयन्तः । कक्षीवते । शतहिमाय । गोनाम् ॥adha | śvetam | kalaśam | gobhiḥ | aktam | kārṣman | ā | vājī | akramīt | sasa-vān | ā | hinvire | manasā | deva-yantaḥ | kakṣīvate | śata-himāya | gonām