Sukta 9.74
अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति । स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥
अ॒द्भिः सो॑म पपृचा॒नस्य॑ ते॒ रसोऽव्यो॒ वारं॒ वि प॑वमान धावति । स मृ॒ज्यमा॑नः क॒विभि॑र्मदिन्तम॒ स्वद॒स्वेन्द्रा॑य पवमान पी॒तये॑ ॥
adbhiḥ soma papṛcānásya te rásó ’vyó vā́raṃ ví pavamāna dhāvati | sá mṛjyámānaḥ kavíbhir madíntama svadásvéndrāya pavamāna pītáye ||
O Soma, mingled with the waters, your essence—wool-filtered—runs out through the strainer as you purify yourself. Cleansed by the seers into the most intoxicating delight, become sweet for Indra to drink—O Pavamāna.
अ॒त्ऽभिः । सो॒म॒ । प॒पृ॒चा॒नस्य॑ । ते॒ । रसः॑ । अव्यः॑ । वार॑म् । वि । प॒व॒मा॒न॒ । धा॒व॒ति॒ । सः । मृ॒ज्यमा॑नः । क॒विऽभिः॑ । म॒दि॒न्ऽत॒म॒ । स्वद॑स्व । इन्द्रा॑य । प॒व॒मा॒न॒ । पी॒तये॑ ॥अत्भिः । सोम । पपृचानस्य । ते । रसः । अव्यः । वारम् । वि । पवमान । धावति । सः । मृज्यमानः । कविभिः । मदिन्तम । स्वदस्व । इन्द्राय । पवमान । पीतये ॥at-bhiḥ | soma | papṛcānasya | te | rasaḥ | avyaḥ | vāram | vi | pavamāna | dhāvati | saḥ | mṛjyamānaḥ | kavi-bhiḥ | madin-tama | svadasva | indrāya | pavamāna | pītaye