Sukta 9.74
सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः । चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥
स॒हस्र॑धा॒रेऽव॒ ता अ॑स॒श्चत॑स्तृ॒तीये॑ सन्तु॒ रज॑सि प्र॒जाव॑तीः । चत॑स्रो॒ नाभो॒ निहि॑ता अ॒वो दि॒वो ह॒विर्भ॑रन्त्य॒मृतं॑ घृत॒श्चुत॑: ॥
sahasrá-dhāre ’vá tā́ḥ asaścátaḥ tṛtī́ye santu rájasi prajā́vatīḥ | cátasro nā́bho níhitā ávo divó havírbharanty amṛ́taṃ ghṛta-ścútaḥ ||
Down from the thousand-streamed source they have flowed unbroken; may they be in the third realm, rich in progeny. Four are the navels set as the supports of heaven; they bring the offering—immortal, dripping with clarified light.
स॒हस्र॑ऽधारे । अव॑ । ताः । अ॒स॒श्चतः॑ । तृ॒तीये॑ । स॒न्तु॒ । रज॑सि । प्र॒जाऽव॑तीः । चत॑स्रः । नाभः॑ । निऽहि॑ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत॑म् । घृ॒त॒ऽश्चुतः॑ ॥सहस्रधारे । अव । ताः । असश्चतः । तृतीये । सन्तु । रजसि । प्रजावतीः । चतस्रः । नाभः । निहिताः । अवः । दिवः । हविः । भरन्ति । अमृतम् । घृतश्चुतः ॥sahasra-dhāre | ava | tāḥ | asaścataḥ | tṛtīye | santu | rajasi | prajāvatīḥ | catasraḥ | nābhaḥ | ni-hitāḥ | avaḥ | divaḥ | haviḥ | bharanti | amṛtam | ghṛta-ścutaḥ