Sukta 9.74
अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम् । दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥
अरा॑वीदं॒शुः सच॑मान ऊ॒र्मिणा॑ देवा॒व्यं१॒॑ मनु॑षे पिन्वति॒ त्वच॑म् । दधा॑ति॒ गर्भ॒मदि॑तेरु॒पस्थ॒ आ येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥
arā́vīd aṃśúḥ sácamāna ūrmíṇā devāvyàṃ mánuṣe pinvati tvácam | dádhāti gárbham áditeḥ upástha ā́ yéna tokáṃ ca tánayaṃ ca dhā́mahe ||
The ray has roared, moving with the wave; it swells for man the god-seeking skin (the outer nature). It places the embryo in the lap of Aditi—by which we may hold the child and the offspring, a founded home in the Infinite.
अरा॑वीत् । अं॒शुः । सच॑मानः । ऊ॒र्मिणा॑ । दे॒व॒ऽअ॒व्य॑म् । मनु॑षे । पि॒न्व॒ति॒ । त्वच॑म् । दधा॑ति । गर्भ॑म् । अदि॑तेः । उ॒पऽस्थे॑ । आ । येन॑ । तो॒कम् । च॒ । तन॑यम् । च॒ । धाम॑हे ॥अरावीत् । अंशुः । सचमानः । ऊर्मिणा । देवअव्यम् । मनुषे । पिन्वति । त्वचम् । दधाति । गर्भम् । अदितेः । उपस्थे । आ । येन । तोकम् । च । तनयम् । च । धामहे ॥arāvīt | aṃśuḥ | sacamānaḥ | ūrmiṇā | deva-avyam | manuṣe | pinvati | tvacam | dadhāti | garbham | aditeḥ | upa-sthe | ā | yena | tokam | ca | tanayam | ca | dhāmahe