Sukta 9.72
स तू पवस्व परि पार्थिवं रजः स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो । मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि ॥
स तू प॑वस्व॒ परि॒ पार्थि॑वं॒ रज॑: स्तो॒त्रे शिक्ष॑न्नाधून्व॒ते च॑ सुक्रतो । मा नो॒ निर्भा॒ग्वसु॑नः सादन॒स्पृशो॑ र॒यिं पि॒शङ्गं॑ बहु॒लं व॑सीमहि ॥
sá tū́ pavasva pári pārthívaṃ rájaḥ stótre śíkṣann ādhū́nvate ca sukrato | mā́ no nírbhāg vásunaḥ sādana-spṛ́śo rayíṃ piśáṅgaṃ bahuláṃ vasīmahi ||
Do thou then flow, circling the earthly realm; instruct our hymn and the one who labours, O thou of good effective will. Do not cut us off from the treasure, thou who touchest the seats of abundance; may we possess the tawny, manifold plenitude of being.
सः । तु । प॒व॒स्व॒ । परि॑ । पार्थि॑वम् । रजः॑ । स्तो॒त्रे । शिक्ष॑न् । आ॒ऽधू॒न्व॒ते । च॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । मा । नः॒ । निः । भा॒क् । वसु॑नः । सा॒द॒न॒ऽस्पृशः॑ । र॒यिम् । पि॒शङ्ग॑म् । ब॒हु॒लम् । व॒सी॒म॒हि॒ ॥सः । तु । पवस्व । परि । पार्थिवम् । रजः । स्तोत्रे । शिक्षन् । आधून्वते । च । सुक्रतो इति सुक्रतो । मा । नः । निः । भाक् । वसुनः । सादनस्पृशः । रयिम् । पिशङ्गम् । बहुलम् । वसीमहि ॥saḥ | tu | pavasva | pari | pārthivam | rajaḥ | stotre | śikṣan | ādhūnvate | ca | sukrato itisu-krato | mā | naḥ | niḥ | bhāk | vasunaḥ | sādana-spṛśaḥ | rayim | piśaṅgam | bahulam | vasīmahi