Sukta 9.72
आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् । उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥
आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् । उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥
ā́ tū́ na indo śatádātu áśvyaṃ sahásradātu paśumád dhíraṇyavat | úpa māsva bṛhatī́ revátīr íṣo ’dhi stótrasya pavamāna no gahi ||
Come to us, O Indu, bringing hundreds of gifts—power of the steed—bringing thousands of gifts, rich in the herds and in the golden light. Bring near to us the vast and opulent impulsions; O Pavamāna, come to our hymn and take thy seat upon it.
आ । तु । नः॒ । इ॒न्दो॒ इति॑ । श॒तऽदा॑तु । अश्व्य॑म् । स॒हस्र॑ऽदातु । प॒शु॒ऽमत् । हिर॑ण्यऽवत् । उप॑ । मा॒स्व॒ । बृ॒ह॒तीः । रे॒वतीः॑ । इषः॑ । अधि॑ । स्तो॒त्रस्य॑ । प॒व॒मा॒न॒ । नः॒ । ग॒हि॒ ॥आ । तु । नः । इन्दो इति । शतदातु । अश्व्यम् । सहस्रदातु । पशुमत् । हिरण्यवत् । उप । मास्व । बृहतीः । रेवतीः । इषः । अधि । स्तोत्रस्य । पवमान । नः । गहि ॥ā | tu | naḥ | indo iti | śata-dātu | aśvyam | sahasra-dātu | paśu-mat | hiraṇya-vat | upa | māsva | bṛhatīḥ | revatīḥ | iṣaḥ | adhi | stotrasya | pavamāna | naḥ | gahi