Sukta 9.72
नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः । इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥
नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वो॒३॒॑ऽपामू॒र्मौ सिन्धु॑ष्व॒न्तरु॑क्षि॒तः । इन्द्र॑स्य॒ वज्रो॑ वृष॒भो वि॒भूव॑सु॒: सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
nā́bhā pṛthivyā́ dharúṇo mahó divó ’pām ū́rmau síndhuṣv antár ukṣitáḥ | índrasya vājró vṛṣabhó vibhū́vasuḥ sómo hṛdé pavate cā́ru matsaráḥ ||
As the navel of earth, as the firm support of the great heaven, set within the wave of the waters, within the rivers—Soma is poured. Indra’s thunderbolt, the bull of force, wide in riches, the lovely ecstasy flows purified in the heart.
नाभा॑ । पृ॒थि॒व्याः । ध॒रुणः॑ । म॒हः । दि॒वः । अ॒पाम् । ऊ॒र्मौ । सिन्धु॑षु । अ॒न्तः । उ॒क्षि॒तः । इन्द्र॑स्य । वज्रः॑ । वृ॒ष॒भः । वि॒भुऽव॑सुः । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥नाभा । पृथिव्याः । धरुणः । महः । दिवः । अपाम् । ऊर्मौ । सिन्धुषु । अन्तः । उक्षितः । इन्द्रस्य । वज्रः । वृषभः । विभुवसुः । सोमः । हृदे । पवते । चारु । मत्सरः ॥nābhā | pṛthivyāḥ | dharuṇaḥ | mahaḥ | divaḥ | apām | ūrmau | sindhuṣu | antaḥ | ukṣitaḥ | indrasya | vajraḥ | vṛṣabhaḥ | vibhu-vasuḥ | somaḥ | hṛde | pavate | cāru | matsaraḥ