Sukta 9.72
अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः । समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥
अं॒शुं दु॑हन्ति स्त॒नय॑न्त॒मक्षि॑तं क॒विं क॒वयो॒ऽपसो॑ मनी॒षिण॑: । समी॒ गावो॑ म॒तयो॑ यन्ति सं॒यत॑ ऋ॒तस्य॒ योना॒ सद॑ने पुन॒र्भुव॑: ॥
aṃśúṃ duhanti stanáyantam ákṣitaṃ kavíṃ kaváyo ’páso manīṣíṇaḥ | samī́ gā́vo matáyo yanti saṃyátā ṛtásya yónā sádane punárbhuvaḥ ||
They milk the bright beam, thundering and inexhaustible—the seers, skilled in works and rich in insight. Together the rays of light and the thought-movements go, held in harmony, to the womb of Truth, to the seat where the becoming is renewed.
अं॒शुम् । दु॒ह॒न्ति॒ । स्त॒नय॑न्तम् । अक्षि॑तम् । क॒विम् । क॒वयः॑ । अ॒पसः॑ । म॒नी॒षिणः॑ । सम् । ई॒म् इति॑ । गावः॑ । म॒तयः॑ । य॒न्ति॒ । स॒म्ऽयतः॑ । ऋ॒तस्य॑ । योना॑ । सद॑ने । पु॒नः॒ऽभुवः॑ ॥अंशुम् । दुहन्ति । स्तनयन्तम् । अक्षितम् । कविम् । कवयः । अपसः । मनीषिणः । सम् । ईम् इति । गावः । मतयः । यन्ति । सम्यतः । ऋतस्य । योना । सदने । पुनःभुवः ॥aṃśum | duhanti | stanayantam | akṣitam | kavim | kavayaḥ | apasaḥ | manīṣiṇaḥ | sam | īm iti | gāvaḥ | matayaḥ | yanti | sam-yataḥ | ṛtasya | yonā | sadane | punaḥ-bhuvaḥ