Sukta 9.72
नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते । आप्राः क्रतून्त्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः ॥
नृबा॒हुभ्यां॑ चोदि॒तो धार॑या सु॒तो॑ऽनुष्व॒धं प॑वते॒ सोम॑ इन्द्र ते । आप्रा॒: क्रतू॒न्त्सम॑जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒॑रास॑द॒द्धरि॑: ॥
nṛbā́hubhyāṃ coditó dhā́rayā sutó ’nu-svadháṃ pavate sóma indra te | āprā́ḥ kratū́n sám ajair adhvaré matī́r vēr ná druṣác camvór ā́ asadat dháriḥ ||
Impelled by the arms of men, expressed in the stream, Soma flows according to his own law of delight for thee, O Indra. Thou hast filled and yoked the powers of will in the sacrifice; like a bird to its resting-place, the tawny one has come to sit upon the bowls.
नृबा॒हुऽभ्या॑म् । चो॒दि॒तः । धार॑या । सु॒तः । अ॒नु॒ऽस्व॒धम् । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ । आ । अ॒प्राः॒ । क्रतू॑न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒ऽसत् । च॒म्वोः॑ । आ । अ॒स॒द॒त् । हरिः॑ ॥नृबाहुभ्याम् । चोदितः । धारया । सुतः । अनुस्वधम् । पवते । सोमः । इन्द्र । ते । आ । अप्राः । क्रतून् । सम् । अजैः । अध्वरे । मतीः । वेः । न । द्रुसत् । चम्वोः । आ । असदत् । हरिः ॥nṛbāhu-bhyām | coditaḥ | dhārayā | sutaḥ | anu-svadham | pavate | somaḥ | indra | te | ā | aprāḥ | kratūn | sam | ajaiḥ | adhvare | matīḥ | veḥ | na | druṣat | camvoḥ | ā | asadat | hariḥ