Sukta 9.72
नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुॠत्वियः । पुरंधिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते ॥
नृधू॑तो॒ अद्रि॑षुतो ब॒र्हिषि॑ प्रि॒यः पति॒र्गवां॑ प्र॒दिव॒ इन्दु॑ॠ॒त्विय॑: । पुरं॑धिवा॒न्मनु॑षो यज्ञ॒साध॑न॒: शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥
nṛdhū́to ádriṣuto barhíṣi priyáḥ pátir gávāṃ pradíva índur ṛ́tviyaḥ | puraṃdhivā́n mánuṣo yajñá-sādhanaḥ śúcir dhiyā́ pavate sóma indra te ||
Purified by men and pressed by the stone, the beloved Indu flows upon the sacred seat; the lord of the rays of light, moving in the wide heaven, fit for the rite. Full of plenitude, serving the human being as the accomplisher of sacrifice, pure with the illumined thought, Soma streams for thee, O Indra.
नृऽधू॑तः । अद्रि॑ऽसुतः । ब॒र्हिषि॑ । प्रि॒यः । पतिः॑ । गवा॑म् । प्र॒ऽदिवः॑ । इन्दुः॑ । ऋ॒त्वियः॑ । पुर॑न्धिऽवान् । मनु॑षः । य॒ज्ञ॒ऽसाध॑नः । शुचिः॑ । धि॒या । प॒व॒ते॒ । सोमः॑ । इ॒न्द्र॒ । ते॒ ॥नृधूतः । अद्रिसुतः । बर्हिषि । प्रियः । पतिः । गवाम् । प्रदिवः । इन्दुः । ऋत्वियः । पुरन्धिवान् । मनुषः । यज्ञसाधनः । शुचिः । धिया । पवते । सोमः । इन्द्र । ते ॥nṛ-dhūtaḥ | adri-sutaḥ | barhiṣi | priyaḥ | patiḥ | gavām | pra-divaḥ | induḥ | ṛtviyaḥ | purandhi-vān | manuṣaḥ | yajña-sādhanaḥ | śuciḥ | dhiyā | pavate | somaḥ | indra | te