Sukta 9.72
अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम् । अन्वस्मै जोषमभरद्विनंगृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥
अर॑ममाणो॒ अत्ये॑ति॒ गा अ॒भि सूर्य॑स्य प्रि॒यं दु॑हि॒तुस्ति॒रो रव॑म् । अन्व॑स्मै॒ जोष॑मभरद्विनंगृ॒सः सं द्व॒यीभि॒: स्वसृ॑भिः क्षेति जा॒मिभि॑: ॥
áramamāṇo átyeti gā́ abhí sū́ryasya priyáṃ duhítus tiró rávam | ánv asmai jóṣam abharad vinam-gṛ́saḥ sáṃ dvayī́bhiḥ svásṛbhiḥ kṣeti jā́mibhiḥ ||
Unwearied, he passes beyond to the cows (the rays), toward the dear place of the Sun, beyond the cry of the milking Daughter. Following him, the bending-grasper brings him delight; and he dwells united with the two sister-powers, the kindred ones.
अर॑ममाणः । अति॑ । ए॒ति॒ । गाः । अ॒भि । सूर्य॑स्य । प्रि॒यम् । दु॒हि॒तुः । ति॒रः । रव॑म् । अनु॑ । अ॒स्मै॒ । जोष॑म् । अ॒भ॒र॒त् । वि॒न॒म्ऽगृ॒सः । सम् । द्व॒यीभिः॑ । स्वसृ॑ऽभिः । क्षे॒ति॒ । जा॒मिऽभिः॑ ॥अरममाणः । अति । एति । गाः । अभि । सूर्यस्य । प्रियम् । दुहितुः । तिरः । रवम् । अनु । अस्मै । जोषम् । अभरत् । विनम्गृसः । सम् । द्वयीभिः । स्वसृभिः । क्षेति । जामिभिः ॥aramamāṇaḥ | ati | eti | gāḥ | abhi | sūryasya | priyam | duhituḥ | tiraḥ | ravam | anu | asmai | joṣam | abharat | vinam-gṛsaḥ | sam | dvayībhiḥ | svasṛ-bhiḥ | kṣeti | jāmi-bhiḥ